अभिज्ञानशाकुन्तलम

Aman G Mishra
01 Sep, 2019 1 min read min read ne
❤️ 0 💬 0 👁 1300
अभिज्ञानशाकुन्तलम

अभिज्ञानशाकुन्तलम


अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।


रविवर्मणा रचिता शकुन्तला- महाभारतस्य किञ्चन पात्रम्

तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --

काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला।तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।

कालिदासस्य तुलनां जनाः शेक्सपियर् नाटककारेण सह कुर्वन्ति। शाकुन्तलविषये गटेनामकस्य जर्मनकवे:अभिप्राय: अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात्आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् ।

नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।

नामकरणम्


“अभिज्ञायते अनेन इति अभिज्ञानम् चिह्नमिति, अभि+ ज्ञा + ल्युट् । शकुन्तैः लालिता शकुन्तला । शकुन्तलामधिकृत्य कृतं नाटकं शाकुन्तलम् ‘अधिकृत्यकृते ग्रन्थे’ इति सूत्रेण ‘अण्’ प्रत्ययः । अभिज्ञानप्रधानं शाकुन्तलम् ‘अभिज्ञानशाकुन्तलम्’ इति व्युत्पतिं दर्शं दर्शं सिध्दमेव अभिज्ञानशाकुन्तलस्य समस्या प्रधानत्वम्, नायिकाप्रधानत्वं च । अतः समस्यां नायिकां च आदाय कृतमस्य ‘अभिज्ञानशाकुन्तलम्’ इति नामकरणं सर्वथा सफलमुचितम् चास्ति । अथवा – अभिज्ञानसहितं शाकुन्तलम् अभिज्ञानशाकुन्तलम् । अथवा अभिज्ञानञ्च शकुन्तलाञ्च इति अभिज्ञानशाकुन्तलम् । कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् । अभिज्ञानशाकुन्तले चतुर्थेऽङ्के कविः कण्वरुपेण उपस्तितोऽस्ति ।


अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्के लौकिकालौकिक प्रकृतिमानवयोः विलक्षणं समन्वयोऽस्ति । वनौकसोऽपि वयं लौकिकज्ञा एव इति कण्वस्य उद्घोषणा चतुर्थाऽङ्कस्य वैशिष्ट्यं द्विगुणयति । अरण्यवासिन्याः शाकुन्तलायाः पतिगृह- हस्तिना पुरगमनम् अरण्यराजप्रसादयोः किमपि विलक्षणं सम्बन्धं प्रतिपादयति । दुर्वाससः शापः, आकाशवाणी, शकुन्तलायाः पतिगृहगमनम्, वनस्पतिभ्यः शकुन्तलायै आभूषणप्रदानम्, कोकिलरवेण शकुन्तलायाः पतिगृहगमनाय वनस्पतीनां स्वीकृतिः , मृगशावकेन शकुन्तलामार्गावरोधः, शकुन्तलायाः प्रस्थानं चेति चतुर्थोऽङ्कस्य महत्वपूर्णाः घटनाः सन्ति । अभुज्ञानशाकुन्तलस्य चमत्कारो दुर्वाससः शापघटनायामाश्रितोऽस्ति, अत एव अंकोऽयं विशिष्टं स्थानं बिभर्ति । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् इत्यनेन शकुन्तलायाः पतिगृहगमनाय अनुज्ञा प्रार्थिता ।

क्षौमं केनचिदिन्दुपाण्डुतरुणा मांगल्यमाविष्कृतम् इत्यनेन शकुन्तलायै वनस्पतिभि आभूषणप्रदानमपि विशिष्टा घटना अस्ति । अस्मान् साधु विचिन्त्य “ इति महर्षिणा कण्वेन दुष्यन्ताय तथा ‘शुश्रूषस्व गुरुन् कुरु’- इत्यनेन शाकुन्तलायै कृत उपदेशः शाश्वतिकः तथा समाजे सर्वेषां कृते महदुपयोगी अस्ति ।आपरितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् ।बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥

ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते इति नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति ।

कथायाः पृष्ठभूमिः


पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् । 

दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।

कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं "सर्वदमन" इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास । 


शोकाकुला शकुन्तला

यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला - "महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर" इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणे किमपि अजानन् इव -

धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥

0 likes

Support Aman G Mishra

Appreciate this story? Send a small tip to encourage the author to write more great work!

Please login to tip the author.

Aman G Mishra
Published By

Aman G Mishra

@aman

Comments

Appreciate the author by telling what you feel about the post 💓

Please Login or Create a free account to comment.

Recommended For You

Stories tailored to your recent reading preferences

More stories in Bookreview
Joshua Alexander 25 May, 2025 2 mins read min

The Last Memory

*The Last Memory* Ava's world was shrouded in darkness, her memories fading like whispers in the wind. She clutched a small, leather-bound book, its pages filled with notes about her past. But with each passing day, the words blurred, and the stories vanished. One day, Ava stumbled upon an antique shop, its sign creaking in the breeze: "Memory Keepers." Inside, she found a mysterious device that claimed to capture and preserve memories. Desperate to hold on to her past, Ava purchased the device and began to record her recollections. As she spoke, the device glowed, and her memories took shape as ethereal orbs. Ava saw her childhood, her parents' smiles, and her first love. But with each recording, the orbs began to fade, and Ava realized that the device was not just capturing her memories but also altering them. The more she recorded, the more her memories changed. He In summary, Ava made a choice: she let go of the device and allowed her memories to fade. As the last orb disappeared, she felt a sense of freedom, like she was untethered from the weight of her past. Ava's story became a legend, a reminder that memories shape us.

588 1
More stories in Bookreview
Ruchika Rai 15 Apr, 2023 1 min read min

भोर उसके हिस्से की

समीक्षा एक नजर में

891 0
More stories in Bookreview
Surabhi sharma 17 Dec, 2022 1 min read min

चतुष्कोण

पुस्तक समीक्षा

880 1
More stories in Bookreview
Dakshal Kumar Vyas 20 Mar, 2022 0 mins read min

नई नज़र पुराना अनुभव

India

971 1