सम्प्रति “मेक इन इन्डिया” तथा “मेड इन इन्डिया” इत्यनयोः चर्चा बहूत्र श्रुयते। अनयोः को भेदः ? इति चिन्त्यमाने क्वचित् भ्रमोत्पद्यते । अस्मासु नैके जनाः अनयोः भेदः नास्तीति चिन्तयन्ति। परन्तु निश्चयेन अनयोः भेदस्तु वरिवर्ति एव। भारतसर्वकारस्य अनयोः द्वयोः कार्यक्रमयोः विषये किञ्चित् विस्तरेण चिन्तयामश्चेत् एषा अवधारणा स्पष्टा भविष्यति।
“मेक इन इन्डिया” मेक इन इन्डिया 2014 तमे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना स्विकृतमासीत् येन भारतीयार्थव्यवस्थायाः स्थिरीकरणं तथा आर्थिकविकाशः भवेदिति। अस्याः योजनायाः उद्देश्यमासीत् एफ-डि-आई द्वारा वैदेशिकनीतौ वैदेशिकव्यापाराय याः याः समस्याः आसन् तासां समस्यानां निवारणमाध्यमेन भारतं प्रति वैदेशिककनिवेशकानामाकर्षणम् । अनया योजनया भारतं वैदेशिक व्यापारीणां कृते निवेशाय नूतनद्वारोद्घाटितम्।
अवसराः लाभाश्च-
· अनया योजनया भारतं विभिन्नबानिज्यिकोत्पादस्य विनिर्माण-केन्द्रत्वेन परिदृश्यमानं वर्तते।
· भारतीयानां कृते उद्योगावसरः वर्धते।
· अयेन कार्यक्रमेन भारतीयार्थव्यवस्थायाः संवर्धनं भविता।
· अनया योजनया नवाधुनिकोद्योगस्थापना माध्यमेन तत् तत् क्षेत्रैस्सह तत्पार्शवर्ति ग्रामीणक्षेत्रेष्वपि उद्योगावसरः साधिता भवति।
· एफ-डि-आई आमेरिकी-मुद्रायाःप्रभुत्वोपरि भारतीयमुद्रायाः सुदृढं स्थानं भविता।
न्युनताः –
· अनया योजनया विनिर्माणक्षेत्रेषु अधिकावधानत्वात् कृषिक्षेत्रे ऋणात्मकप्रभावः दृश्यते।
· भारतीयविनिर्माणक्षेत्रे वैदेशिकविनियोगेन देशीय लघु औद्योगिकानां कृते समस्यास्पदं वर्तते।
· विनिर्माणोद्यगाय अत्यधिकरुपेण प्राकृतिकसंसाधनानामावश्यकता वर्तते येन प्राकृतिकसंसाधनानां न्युनत्वे सति भारतीयानामस्तित्वसंकटं प्रति नयति।
· यदि कदाचित् वैदेशिकनिवेशकानां पलायनं विच्युतिर्वा भवति तर्हि वृत्तिहिनता भविता ।
“मेड इन इन्डिया”– मेड इन इन्डिया भारते भारतीयैः निर्मितानां उत्पाद्यानां परिचायकः। अनया योजनया देशीय संसाधनान्युपयुज्य आत्मनिर्भरभारतनिर्माणाय स्वदेशी संस्थानां कृते प्रोत्साहं प्रदीयते। येन भारतीयानामुद्योगावसरः वर्धते। यदि एषः कार्यक्रमः सुकौशलेन परिचाल्यते तर्हि भारतीयाः स्वदेशीसंस्थाः अपि निःसंशयं वैदेशिकसंस्थाभिस्सह प्रतिस्पर्धायै अग्रे भविष्यत्येव।
अवसराः लाभाश्च-
· स्वदेशी निर्माणाय देशस्य प्रतिभा तथा संसाधनानां कुशलोपयोगः।
· भारतीयानां कृते उद्योगावसराः।
· भारतीयार्थव्यवस्थायाः समुन्नयने भारतीयानां योगदानम्।
· देशीयलघुशिल्पपतिनां कृते आत्मनिर्भरं भवितुं प्रोत्साहनं, येन ग्रामीणाः अपि विकासमार्गे अग्रे भविष्यन्ति।
समस्याः – भारतीयार्थव्यवस्थायाः वर्तमानपरिस्थितिः स्वदेशी शिल्पपतिनां कृते प्रतिकूलमेव भाति। देशं विश्वस्तरे अग्रेनयनाय केन्द्रसर्वकारः मेक इन इन्डिया इत्यत्र अधिकावधानं ददाति पुनश्च भारतीयद्रव्यानां गुणवत्तादृष्ट्या न्युनता हेतौ क्रेतानां क्रयणेच्छा न वर्धते तस्मात् उपभोक्तृसंख्यायां न्युनता दृश्यते।
प्रमुखभेदाः –
Ø प्रथमतः – मेक इन इन्डिया न केवलं एकं चिह्नं(ब्रान्ड)अपि तु भारतीयोद्योगक्षेत्रे सक्रियतानयनाय एका परिकल्पना। परन्तु मेड इन इन्डिया भारते उत्पादितद्रव्यानां भारते तथा सम्पूर्णविश्वे स्वपरिचयं ख्यापयितुमेकः संक्लपः।
Ø द्वितीयतः - मेक इन इन्डिया भारतीयविनिर्माणक्षेत्रे निवेशाय वैदेशिकनिवेशकानां प्रति आकर्शनम् । परन्तु मेड इन इन्डिया इत्यस्य मुख्योद्देश्यमस्ति भारते स्वदेशीद्रव्यानामुत्पादनं निवेशनञ्च।
Ø तृतीयतः - मेक इन इन्डिया इत्यत्र प्राप्त लभ्यांशे वैदेशिकनिवेशकानामपि अंशः विद्यते। परन्तु मेड इन इन्डिया द्वारा अर्जितलभ्यांशः भारतीयार्थव्यवस्थायां अन्तर्भवति।
द्वयोः नीत्योः सम्यक् अवलोकनेन ज्ञायते यत् द्वयोरपि मुख्योद्देश्यं भारतीयार्थव्यवस्थायाः समुन्नयनमेव।
एकत्र मेक इन इन्डिया भारतीयार्थव्यवस्थायां वैदेशिकनिवेशाय प्रोत्साहयति। अन्यत्र मेड इन इन्डिया भारते उत्पाद्यवस्तुनां निर्माणेन भारतम् आत्मनिर्भरं कर्तुं सहायकं भवति। अत्र केवलं सम्यक् पन्थानिर्धारणस्यावश्यकता वरिवर्ति।
Comments
Appreciate the author by telling what you feel about the post 💓
Uttam lekhanam. Labha tatha nyoonata vishaye samyak charcha kratam. shobhanam
धन्यवादाः आचार्याः 🙏
Shobhanam upasthapanam...👌👍
@bithikakundu धन्यवादाः
मकेस् सेन्से... वेर्य् गोओद्
Please Login or Create a free account to comment.