संस्कृतभाषायाः वैशिष्ट्यम्

राष्ट्रस्य परमोन्नतस्थानस्य प्राप्त्यर्थम् उत्तमं साधनं भवति संस्कृतम् । यदा यदा राष्ट्रस्य पुनरुद्धरणप्रक्रिया आसीत् तदा तदा यस्य कस्यापि संस्कृतज्ञस्य दायः तत्र लीनः स्यात् यथा चन्द्रगुप्तकाले चाणक्यस्य । राष्ट्रं सहजम् इति कारणेन राष्ट्रनिर्माणम् इति प्रयोगः असाधुः भवति । राष्ट्रं स्वसंस्कृतिद्वारा, संस्कृतिः स्वाभाषाद्वारा एव जीवति इत्यतः राष्ट्रोज्जीवनाय संस्कृतोज्जीवनं प्रथमं प्रधानं सोपानम् । पूर्वं भारतं जगद्गुरुः आसीत् ।

Aman G Mishra
29 Aug, 2019 1 min read min read hi
❤️ 0 💬 0 👁 1137
संस्कृतभाषायाः वैशिष्ट्यम्

संस्कृतभाषायाः वैशिष्ट्यम्


"संस्कृतं नाम दैवीवाक् अन्वाख्याता महर्षिभिः" इति कवेः दण्डिनः बहुप्रसिद्धा उक्तिः । कदाचित् संस्कृतस्य विकासाय प्रतिरोधः यथा भवेत् तथा एतस्याः प्रसिद्धिः व्याप्ता खलु इति मे संशयः । न केवलं दैवीवाणी, मानुषी अपि वाणी एषा इति प्रत्यभिज्ञानम् आवश्यकम् अस्माकम् । अत एव अस्याः महत्त्वविषये विशेषचिन्तना कार्या जाता । सम् उपसर्गपूर्वक-कृ-धातुतः क्तप्रत्ययं विधाय संस्कृतम् इति निष्पादितम् । दैवीवागेव प्रकृतिप्रत्ययविभागाख्यसंस्काररूपेण संस्कृतम् इति उच्यते ।

इयं सर्वश्रेष्ठा भाषा इति भाषाकोविदाः वदन्ति । सर्वभाषाजननी इति अस्या अन्वर्थसंज्ञा । सर्वाः अपि भाषाः अस्याः जाताः अनया एव पोषिताश्च वर्तन्ते । आदिमकाले लोके सर्वत्र जनविभागे धर्मविषये संस्कृतिविषये च एकत्वम् आसीत् । अत एव प्रत्येकनामकरणेन विना सनातनधर्मः सनातनसंस्कृतिः इत्यादि सनातनश्ब्देन व्यवहृतश्चाभवत् । तस्मिन् काले भाषा अपि एका एव । सा एव सनातनभाषानामकं संस्कृतम् । कदाचित् एतत् श्रुत्वा भवताम् आश्चर्यं स्यात् । कारणम् अधुना इन्दोयूरोप्यन्भाषागोत्रे एका एव खलु एषा इति । तत्र किञ्चित् चिन्तनीयम् । सकलभाषागोत्राणामपि मातृरूपेण एका भाषा आसीत् इति पण्डिताः अङ्गीकुर्वन्ति एव । सा संस्कृतभिन्ना इति ते वदन्ति च । किन्तु तेषां कृते तस्याः भाषायाः एकः अपि शब्दः एतावत्पर्यन्तं न प्राप्तः इति तु रसकरः विषयः । विद्यमानासु सर्वासु भाषासु प्राचीना भाषा संस्कृतम् एव इत्यपि ते अङ्गीकुर्वन्ति । एतत्सर्वं मनसि निधाय विचारं करोति चेत् अवगन्तुं शक्यते यत् ते पण्डिताः पुर्वाग्रहपीडिताः आसन् इति । अतिप्राचीनलिखितग्रन्थः संस्कृतभाषायामेव अस्ति । सिन्धुसंस्कारस्य लिपीः पठित्वा केचन पण्डिताः वदन्ति तत्रत्य भाषापि संस्कृतभाषा आसीत् इति । एवं चिरपुरातनी चेदपि नित्यनूतना अस्ति एषा भाषा ।

संस्कृतं सुस्पष्टा भाषा


संस्कृतस्य घटनाविषये शब्दसम्पतौ च इतरभिन्नं वैशिष्ट्यं वर्तते । समग्रम् आशयमपि गतिभ्रंशं विना प्रकटीकर्तुं योग्या अस्ति एषा । अपि च अस्याः शब्दनिर्माणसामर्थ्यम् अपरिमिता श्रेष्ठा च विद्यते । संस्कृते विद्यमानानां धातूनाम् उपसर्गाणां प्रत्ययानां च बलेन असंख्यकोटिशब्दाः निर्मातुं शक्यन्ते । प्रायः द्विसहस्रं धातवः, द्वाविंशतिः उपसर्गाः, कृत्तद्धितसमासादयः पञ्चवृत्तयः तत्र विद्यमानाः असंख्यप्रत्ययाः च शब्दनिर्माणसामग्र्यः । अस्याः कर्तृकर्मक्रियारूपवाक्यघटना शाब्दबोधप्रक्रिया च अतिविशिष्टा गणकयन्त्रेऽपि (कम्प्यूटर्-यन्त्रेपि) उपयोगयोग्या इति तज्ज्ञाः वदन्ति । प्रयोगसामर्थ्यं, शब्दमाधुर्यं सुत्रीकरण्सौकर्यम् इत्यादौ अनेकस्मिन् विषये संस्कृतभाषा अत्युन्नतस्तरीया भवति ।


संस्कृतं शास्त्रभाषा


विज्ञानक्षेत्रम् इत्युक्ते अनुनिमिषं विकसनस्वभावकं भवति । अत एव तत्रत्यं नूतनम् आशयं प्रकटयितुं नामकरणं विधातुं च संस्कृतं साहय्यं करोति । पुर्वस्मिन् काले सकलशास्त्रविषया अपि संस्कृतमाध्यमेन पाठिताः आसन् । स्मरणासौकर्यार्थं श्लोकरूपेण शास्त्रविषयान् पूर्वं प्रतिपादयति स्म । गणितम्, विज्ञानम्, तन्त्रज्ञानम्, वास्तु, ज्योतिषम्, आयुर्वेदः इत्यादयः शास्त्रविषयाः संस्कृतभाषया एव विद्यन्ते । अलङ्कारशास्त्रस्य आध्यात्मिकदार्शनिकशास्त्रस्य च विहाररङ्गः अपि एषा एव आसीत् । कामशास्त्रतः वैमानिकशास्त्रपर्यन्तं चतुष्षष्टिकलानां माध्यमरूपेण इयम् एव भाषा आसीत् । सङ्गीतविद्यादयः किमधिकं चोरविद्या अपि अनया प्रतिपदिताः इति भावः ।


संस्कृतं संस्कृतये


एकस्याः चिरपुरातनायाः संस्कृतेः अविच्छिन्नप्रवाहे कारणीभूता एषा भाषा । सर्वाः भाषाः स्वस्य स्वस्य संस्कारं प्रसरन्तीषु सत्सु ताभ्यः अपि एकसूत्रीकरणेन समग्रतां ददाति एषा सुरकन्यका । ये एतां भाषां यथायोग्यं पठन्ति ते सर्वे अपि संस्कृतिमन्तः भविष्यन्ति । एकेन आरक्षकाधिकारिमहाशयेन एकदा उक्तमासीत् यत् अपराधिनां गणनामध्ये संस्कृतज्ञानां सङ्ख्या अङ्गुलीपरिमिता एव सन्ति । ते अपि स्वस्य कारणेन एव कारागारं प्रविष्टाः इति न सन्ति इति । एतत् पर्याप्तं भवति अस्याः सांस्कृतिकमहत्त्वं प्रकाशयितुम् इति चिन्तयामि ।


व्यक्तित्वविकासाय संस्कृतम्


लण्डन्मध्ये सेण्ट् जेयिंस् विद्यालये प्राथमिककक्ष्यातः निर्बन्धविषयत्वेन संस्कृतं पठनीयम् इति श्रुत्वा एकदा कश्चित् कार्यकर्ता विद्यालयाधिकारिणं पृष्टवान् "किमर्थम् अत्र संस्कृतं पाठयति ?" इति । तदा सः उक्तवान् -"मनुष्यमस्तिष्कस्य विकासाय संस्कृतभाषा बहूपयोगिनी इति शास्त्रज्ञानां निर्देशानुसारम् एषः प्रयोगः" इति । तस्य परिणतफलं किम् इति जिज्ञासायां सत्यां सः पुनः उक्तवान् - "अत्यद्भुतमयः अस्ति अस्य परिणामः । अधुना छात्राणां स्मरणशक्तिरपि बहुवर्धिता दृश्यते" इत्यादि । "अभयं वै ब्रह्म", "तत्त्वमसि", "अमृतस्य पुत्राः" इत्यादयः उपनिषत्प्रयोगाः मनश्शक्तिवर्धनाय कियता प्रमाणेन उपकुर्वन्तीति वक्तव्यं नास्ति खलु । संस्कृतगद्यपद्यादीनाम् उच्चारण्द्वारा प्राणायामतः प्राप्यमानं फलमेव प्राप्तुं शक्नुमः । तेन अरोगदृढगात्रता लभ्यते खलु । एतस्याः भाषायाः शब्दकुलीनतास्वामिविवेकानन्दपादैः प्रतिपादिता च । एवं कायेन वाचा मनसा इन्द्रियैः बुदध्या आत्मना च विकारं कृत्वा परिपूर्णव्यक्तित्वप्रदायकं भवति संस्कृतम् ॥


संस्कृतं राष्ट्रस्य् पुनरुद्धरणाय


राष्ट्रस्य परमोन्नतस्थानस्य प्राप्त्यर्थम् उत्तमं साधनं भवति संस्कृतम् । यदा यदा राष्ट्रस्य पुनरुद्धरणप्रक्रिया आसीत् तदा तदा यस्य कस्यापि संस्कृतज्ञस्य दायः तत्र लीनः स्यात् यथा चन्द्रगुप्तकाले चाणक्यस्य । राष्ट्रं सहजम् इति कारणेन राष्ट्रनिर्माणम् इति प्रयोगः असाधुः भवति । राष्ट्रं स्वसंस्कृतिद्वारा, संस्कृतिः स्वाभाषाद्वारा एव जीवति इत्यतः राष्ट्रोज्जीवनाय संस्कृतोज्जीवनं प्रथमं प्रधानं सोपानम् । पूर्वं भारतं जगद्गुरुः आसीत् । तथा समग्रर्पृथ्वीतः जनाः अत्र आगत्य शिक्षणं प्राप्य स्वचरित्रं निर्मितवन्तः आसन् । तद्यथा मनोः वचने "एतद्देशप्रसूतस्य सकाशादग्रजन्मनः स्वं स्वं चरित्रं शिक्षेरन् प्रूथिव्यां सर्वमानवाः" इति । नलन्दा -तक्षशिलादयाः विश्वविद्यालयाः तेषाम् अध्ययनकेन्द्राणि आसन् यत्र संस्कृतेन एव सर्वविषयान् पाठयन्ति स्म । तदेव जगद्गुरुभारतम् अद्य जगद्मिक्षुकः जातः यतः राष्ट्रापेक्षया राष्त्रियस्य महत्त्वदानात् संस्कृताभिमानाभावात् संस्कृतस्य अवगणनमनोभावात् च । यदि संस्कृतस्य उचितं प्राधान्यं कल्पयति तर्हि संस्कृतेः तद्वारा राष्ट्रस्य परमवैभवप्राप्तिः भवेदेव । एवं भाषाशास्रदृष्टया संस्कारवाहिनीरुपेण वैज्ञानिकसाङ्केतिकतन्त्रज्ञानादि शास्त्र्व्यवहारयोग्यतया व्यक्तित्वविकासमाध्यमत्वेन राष्ट्रपुनर्निर्माणसाधनत्वेन च संस्कृतभाषायाः महत्त्वम् अस्त्येव ।


0 likes

Support Aman G Mishra

Appreciate this story? Send a small tip to encourage the author to write more great work!

Please login to tip the author.

Aman G Mishra
Published By

Aman G Mishra

@aman

Comments

Appreciate the author by telling what you feel about the post 💓

Please Login or Create a free account to comment.

Recommended For You

Stories tailored to your recent reading preferences

More stories in Spirituality
Tercy Atemnkeng 24 Oct, 2025 2 mins read min

buy copper cathode online in dubai +255718841417

WhatsApp: ‪+255718841417‬ WhatsApp: ‪+255718841417‬ Buy Aluminium scrap online Buy aluminium scrap metal online Aluminum scrap for sale online Buy copper cathode online Buy copper wire online Copper wire copper scrap copper cathode for sale Buy aluminum ingots Buy aluminum ingots online Aluminum ingots for sale online Order aluminum scrap aluminum ingots copper wire scrap copper cathode Millberry copper Scrap meaning Millberry Copper price Millberry Copper Scrap Price in india Millberry Copper Scrap price in Chennai Millberry Copper Scrap importers in India Copper Millberry uses Copper millberry price per Ton Copper Millberry suppliers Copper millberry scrap HS Code Millberry Copper Scrap price usa Millberry Copper Scrap in india Copper Millberry Scrap specifications Scrap yards in Canada Buy copper scrap Iron scrap in Canada Scrap metal exporters in USA Brass Scrap price Metal recycling Steel prices Canada Copper scrap for sale Copper Scrap suppliers Buy copper scrap Cheapest copper scrap in World Copper Price Per kg in oman Copper scrap from Oman Scrap Copper Price in Oman today Copper wire price in oman Scrap copper price per kg today Scrap Price in Oman Aluminium Scrap Price in Oman How to start scrap business in Oman Aluminium scrap suppliers in Oman Copper Scrap price Export scrap metal from Canada to India Scrap aluminum Scrap exporters Scrap metal Toronto Metal recycling Metal scrap suppliers in USA Scrap aluminum prices bc Scrap metal export Aluminum Scrap Price Scrap for sale in Canada Copper scrap suppliers in Canada Iron scrap in Canada Recycling in Kuwait Recycling companies in Kuwait Recycling bins in Kuwait Metal recycling co Kuwait Metal recycling company MRC Kuwait List of waste Management companies in Kuwait Newair Kuwait Sahari metal recycling co Compost Kuwait Metal scrap suppliers in Saudi Arabia Crown aluminium and metal factory Crown Industries Bahrain Delmon Waste paper Recycling Litco Bahrain Crown Incineration Bahrain Crown Metals Aluminium scrap dealers in Qatar Scrap Copper price per kg today Qatar Scrap price in Qatar Furniture Scrap buyers in Qatar Scrap buyer in Doha Scrap handling companies in Doha DragonStar Scrap Seller of scrap electric motors in japan Motor Scrap Electric Motor Scrap exporters Mill scale buyers in Japan Shiozawa Metal Co., LTD Scrap rate today TTPP - JETRO Contact JETRO Japan External Trade Organization JETRO email Scrap dealers in Hong Kong Aluminium scrap supplier in Hong Kong Aluminium scrap suppliers in Europe Zurik Scrap suppliers Electric motor scrap in Europe Copper scrap suppliers in Europe Email: Lestdnks@gmail.com Email: lestdnks@gmail.com Aluminum for sale We have A7 Aluminum ingots We can supply 1000 tons 5000 tons up to 50,000 tons monthly, 99.7%

259 0
More stories in Spirituality
fazal Esaf 05 Jul, 2025 1 min read min

"मदीना को लिखे गए ख़त"

हर जुमे की सुबह एक बूढ़ा आदमी अपने दिल के टुकड़े काग़ज़ पर रख देता था — मदीना के नाम।" ‘मदीना को लिखे गए ख़त’ एक रूहानी, मोहब्बत-भरी कहानी है, जो इबादत और इंतज़ार के धागों से बुनी गई है। गुलज़ार की नज़्मों की तरह नरम, और दिल को छू लेने वाली इस कहानी में, एक पोती अपने दादा के उन ख़ामोश ख़तों को पढ़ती है, जो मदीना को नहीं, बल्कि अल्लाह से की गई एक धीमी, टूटती बातचीत होते हैं। यह कहानी है उन अल्फ़ाज़ों की जो कभी भेजे नहीं जाते, उन दुआओं की जो जवाब नहीं मांगतीं—बस यकीन रखती हैं।

298 0
More stories in Spirituality
Abdul Aleem nsk 29 Jun, 2025 3 mins read min

"The Boy Who Held Storms in Silence" (Fiction)

A silent boy, crushed by cruelty and unseen by the world, carries his pain alone—until it quietly ends him.

490 0
More stories in Spirituality
fazal Esaf 02 Jun, 2025 1 min read min

गांव और इंसाफ़

यह कहानी पंडित रामलाल और उनकी पत्नी सीता देवी की है, जो एक ऐसे गाँव में रहते हैं जहाँ हिंदू और मुस्लिम समुदाय सदियों से शांति और सौहार्द से रह रहे थे। एक दिन, देश के किसी दूसरे हिस्से में हुए एक आतंकवादी हमले के बाद, गाँव का माहौल बिगड़ जाता है। कुछ कट्टरपंथी ग्रामीण गुस्से में आकर गाँव के मुस्लिम परिवारों को धमकाने लगते हैं और उन्हें अपने घर खाली करने का आदेश देते हैं, उन पर आतंकवादी होने का आरोप लगाते हैं। गाँव के मुस्लिम परिवारों में से एक, सलमा बेगम और उनके परिवार को विशेष रूप से निशाना बनाया जाता है। जब भीड़ उन्हें उनके घर से निकालने की कोशिश करती है, तो पंडित रामलाल और सीता देवी उनके बचाव में आगे आते हैं। पंडित रामलाल भीड़ से सवाल करते हैं कि क्या किसी एक व्यक्ति के गलत काम के लिए पूरे समुदाय को दोषी ठहराना सही है। वह तर्क देते हैं कि अगर ऐसा होता है, तो हिंदुओं द्वारा किए गए बुरे कामों के लिए पूरे हिंदू समुदाय को भी दोषी ठहराया जाना चाहिए। उनकी पत्नी, सीता देवी, भी अपनी बात रखती हैं और सलमा बेगम के गाँव के प्रति योगदान और मदद को याद दिलाती हैं। वे दोनों स्पष्ट करते हैं कि आतंकवाद का कोई धर्म नहीं होता; आतंकवादी सिर्फ़ मानवता के दुश्मन होते हैं। वे गाँव वालों को समझाते हैं कि उन्हें आपस में नफ़रत फैलाने के बजाय ऐसे बुरे लोगों का मिलकर विरोध करना चाहिए। पंडित रामलाल और सीता देवी की बुद्धिमान और दृढ़ बातों का गाँव के लोगों पर गहरा असर होता है। उन्हें अपनी गलती का एहसास होता है और भीड़ शांत हो जाती है। इस घटना से गाँव वालों को यह महत्वपूर्ण सबक मिलता है कि किसी एक व्यक्ति के कृत्य के लिए पूरे समुदाय को दोषी ठहराना अन्याय है और धर्म के नाम पर नफ़रत फैलाना गलत है। यह कहानी सच्ची इंसानियत, समझदारी और मुश्किल समय में एक-दूसरे का साथ देने के महत्व को दर्शाती है।

447 0